Categories
News

गीतामृतेनैव मुक्ता भवन्तु

सुखे च दुःखे च स्थिरं सुकृत्या गीतामृतेनैव मुक्ता भवन्तु

यजन्तु गीतां भजन्तु गीतां त्यजन्तु मोहान् भवन्तु सुखिनः
देहेऽस्थिबद्धे भवरोगग्रस्तो देहोऽस्ति मोहोऽस्ति भवरोगहेतुः |

वदन्तु गीतां वरदेवप्राप्तां लभन्तु सत्यं भवरोगहारम्
कर्मार्थं गीता धर्माय गीता ज्ञानाय गीता मोक्षाय गीता |

क्रीडन्तु गीतां गुरुदेवप्राप्तां सुकृतात् च प्राप्तां सुहृदा च प्राप्ताम्
पठन्तु गीतां व्रजन्तु मार्गान् अवाप्य तस्मात् परमार्थ ज्ञानम् |

सुखे च दुःखे च स्थिरं सुकृत्या गीतामृतेनैव मुक्ता भवन्तु
उपास्य गीतां वेदान्तसारां लोकाः समस्ताः सुखिनो भवन्तु ​||​

Gita Sanskrit sloka